वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 182, कुल 296 में से
संदर्भ में पढ़ें146 वास्तुमण्डनम् लोकशास्त्रविरुद्धानि ९नामानि परिवर्जयेत्। दशरुद्रार्कसूर्यैश्च १०गुरुभिर्लघुकल्पना ॥ ३५ ॥ एकद्वित्रिचतुःशाले क्रमेणोक्ता स्वयम्भुवा। अधिकान्याद्यरूपाणि प्रस्तारस्य परित्यजेत् ॥ ३६ ॥ यद्विश्वकर्मणो वाक्यं भेदैर्भिन्नास्तु षोडश। प्रस्तारस्य त्रयो भेदाः सूचिता विश्वकर्मणा ॥ ३७ ॥ गृहाग्रेऽलिन्दबाहुल्यात् पूर्वरूपाण्यतस्त्यजेत्। एको भेदो गृहोत्पत्तेः सहस्रादि द्वितीयकः ॥ ३८ ॥ एकैकस्य तथैवाष्टाविति भेदास्त्रयो मताः। धान्याद्यष्टौ समा११न्यग्रे पुन११र्लघुयुतानि च ॥ ३९ ॥ तेषामलिन्दसंयोगादेकैकस्याष्टकं भवेत् ॥ ४० ॥ अथ एक शालानि ॥ ध्रुवं धान्यं जयं नन्दं खरं कान्तं १२मनोहरम्। सुमुखं दुर्मुखं क्रूरं १३सुपक्षं धनदं क्षयम् ॥ ४१ ॥ आक्रन्दं विपुलं चैव विजयं नामवत्फलम्। खरं च दुर्मुखं क्रूरं क्षयमाक्रन्दकं त्यजेत् ॥ ४२ ॥ इति ध्रुवादीनि ॥ धान्याद्येकैकान्तरेऽष्टमुखालिन्दयुतानि चेत्। तदा रम्यं श्रीधरं च मुदितं वर्धमानकम् ॥ ४३ ॥ करालं च सुनाभं च ध्वाक्षं समृद्धिमित्यपि। इति रम्यादीनि ॥ ९. नानापि in B. C, D, E १०. प्रस्तृतैलदिकल्पना in A ११. न्य ग्रै तु न° in A १२. मनोरमम् in A १३. विपक्षं, in A