भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 184, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 184

148 वास्तुमण्डनम् ध्रुवादिमध्ये षड्दारु सुन्दरादीनि षोडश ॥ ४४ ॥ सुन्दरं वरदं भद्रं प्रमोदं विमुखं शिवम्। सर्वलाभं विशालं च विलक्षमशुभं ध्वजम् ॥ ४५ ॥ उद्योतं भीषणं शून्यमजितं कुलनन्दनम् ॥ ४६ ॥ इति सुन्दरादीनि ॥ पूर्वालिन्द १४युतोऽष्टेषु पुनः षड्दारुके सति। हंसं सुलक्षणं सौम्यं हयं भावुकमुत्तमम् ॥ ४७ ॥ रुचिरं सन्ततं क्षेममाक्षेपमुच्छ्रितं वृषम्। उच्छत्रं व्ययमानन्दं सुनन्दं चेति षोडश ॥ ४८ ॥ इति हंसादीनि ॥ ध्रुवादिमध्येऽपवर्कोऽलङ्कृतादीनि षोडश। अलङ्कृतमलङ्कारं रमणं १५पूर्वमीश्वरम् ॥ ४९ ॥ पुण्यं सगर्भं कलशं दुर्गतं १६रक्तमीप्सितम्। भद्रकं वञ्चितं दीनं विभवं कामदं तथा ॥ ५० ॥ इत्यलङ्कृतादीनि। एतेषु चापवर्कस्य मध्ये षड्दारुके सति। प्रभवं भावितं रुक्मं तिलकं क्रीडनं मुखम् ॥ ५१ ॥ यशोदं कुमुदं कालं भासुरं भूषणं तथा। वसुन्धरं धान्यहरं कुपितं चित्तवृद्धिदम् ॥ कुलोदयं च विज्ञेयं गुणाभिधानं शाश्वतम् ॥५२ ॥ १४. युतष्बेषु in A १५. पूर्णम् in A १६. रिक्तम् in A