वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 186, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 186
150 वास्तुमण्डनम् इति प्रभवादीनि। अपवर्को द्विषड्दारु मुखेऽलिन्दो यदा भवेत्। चूडामणि प्रभद्रं च क्षेमे शेखरमुच्छ्रितम् ॥ ५३ ॥ विशालं भूतिदं हृष्टं विरोधं कालपाशतः। निरामयं सुशालं च रौद्रं मेघं मनोरमम् ॥ ५४ ॥ सुभद्रं चैकशालानामिति वेदोत्तरं शतम् ।५५ ॥ इति चूडामण्यादीनि ॥ अपवर्कस्तु फलकैः कृतं शालान्तरे गृहम्। दक्षिणे तद्गृहे शस्यं वामपार्श्वे तु योषिताम् ॥ ५६ ॥ १७प्रस्तारे लघुसंस्थाने भवनस्य नवांशतः। शाला स्यादग्निकोणादौ तदा पञ्चादशालयाः ॥ ५७ ॥ ईश्वरं वृषभं चन्द्रं रोगं पापं भयप्रदम्। नन्दनं खादकं ध्वाक्षं विवृतं विलयं क्षयम् ॥ ५८ ॥ १८याम्यं हि विपरीतं च सुभद्रं तिथिसन्मितम् ॥ ५९ ॥ इति एकशालानि ॥ १७. प्रस्थाने in B,C,D,E १८. याम्याहं in A