वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 188, कुल 296 में से
संदर्भ में पढ़ें152 वास्तुमण्डनम् अथ द्विशालानि। १९हस्तिनी महिषी गावी छागली च यथाक्रमम्। युग्मानि हंस विमलं संज्ञायाष्टाष्ट निर्दिशेत् ॥ ६० ॥ द्विहंसं च द्वि २०चक्राह्वं द्विसारसमथापि वा। द्वि कोकिलमिति प्रोक्तं हस्तिन्यादि क्रमेण तु ॥ ६१ ॥ चतुरस्रं समं कृत्वा त्रिपुटे नवकोष्ठकम्। मध्यकोष्ठपदं त्यक्त्वा शालायुग्मानि चिन्तयेत् ॥ ६२ ॥ दक्षिणस्यां २१तदाग्रेय्यां हस्तिन्युत्तरदिङ्मुखाम्। पितृवारुणसंयोगान्महिषी पूर्वतो मुखा ॥ ६३ ॥ दक्षिणाभिमुखा गावी सोमे रोगे च संस्थिता। वरुणाभिमुखा शस्ता ऐन्द्रे २२रोगे च छागली ॥ ६४ ॥ श्रीधरं च मुखालिन्दे याम्याग्रस्थे जयावहम्। श्रीजयं प्रदक्षिणास्थे मुखयुग्मे तु कामदम् ॥ ६५ ॥ याम्याग्रमुखतोऽलिन्दे जयन्तं नाम शोभनम्। प्रदक्षिणेऽलिन्दयुग्मे २३विशालमिति निर्दिशेत् ॥ ६६ ॥ अग्रे तृतीयालिन्दे तु जायते सोमसम्भवम्। १९. We find similar verses in A.P ch 93,94 २०. चक्रं च, in D २१. तथा-in A २२. रुद्रे च लांगली in B,C,D,E २३. विलास in A