भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 190, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 190

154 वास्तुमण्डनम् हस्तिनी क्रमगे द्वारे इदं युग्मगृहाष्टकम् ॥ ६७ ॥ एतान्येवान्यसंज्ञाभिर्दिग्भेदान्नामपर्यये । गजं भीमं पराक्रमं जयन्तं भासुरं तथा ॥ ६८ ॥ २४वशिष्ठं च समुद्रं महिषीपृष्ठसम्भवात् । सुनाभं वर्तकं सौम्यं चन्द्रं तेजश्च दीपकम् ॥ ६९ ॥ कुलोद्योतं सुनेत्रं च गावीपृष्ठोद्भवानि हि । पाशुपतं महाकालं सुतेजस्तेजवर्द्धनम् ॥ ७० ॥ २५वाशवं दशभूतानां रुद्रतेजः समुद्भवम् । छागलीपृष्ठजातानि गृहान्येतानि निर्दिशेत् ॥ ७१ ॥ इति युग्मगृहद्वात्रिंशद्भेदलक्षणम्। द्विपञ्चाशद्विशालानां लक्षणं वक्ष्यते क्रमात् । सिद्धयर्थं यमसूर्यं च दण्डाख्यं वातसंज्ञकम् ॥ ७२ ॥ चुल्लिकाचप्रमुखादि द्विशालानि प्रचक्षते । अनेकभेदभिन्नानि २६लघुप्रस्तारयोगतः ॥ ७३ ॥ मुषाभेदं क्रमैस्तानि भिन्नाभिन्नक्रमेण च । तथा निलयकरणं मुषालिन्द सुमार्गतः ॥ ७४ ॥ प्राग्ग्रीवादिविधानेन द्विशालानि २७च पर्ययात् । यथासम्भवमेतानि कथयामि समासतः ॥ ७५ ॥ निर्वाहस्तत्र मुषानामनिर्वाहश्च नामतः । छन्दतो गुणतो रूपादशुभानि शुभानि च ॥ ७६ ॥ २४. बसिष्टं in A २५. वासनं in B,C,D,E २६. अलिन्द प्रस्तार in D,E. २७. विपर्ययात् in A.P