भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 192, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 192

156 वास्तुमण्डनम् हितार्थाय नरेन्द्राणां २८वर्णिनां लिङ्गिनामपि। हस्तिनी महिषी चापि द्विशाला यत्र वेश्मनि ॥ ७७ ॥ तत्सिद्धार्थमिति ज्ञेयं २९वित्तसम्पत्तिकारकम्। भवेद्रोमहिषीभ्यां तु यम३०सूर्यमृतिप्रदम् ॥७८ ॥ दण्डाख्यं छागली गावी शालाभ्यां दण्डभीतिदम्। वाताख्यं छागली युक्ता महिष्युद्वेग ३१कारकम् ॥७९ ॥ महिष्यजाभ्यामुद्वेगकरी चुल्लीति नामतः। काचं करेणुगावीभ्यां सुहृत्प्रीतिविनाशनम् ॥८० ॥ एकमुषामुषं च न द्विशालेषु कारयेत्। अस्याकारं तु चुल्लीं च सर्वभित्तिस्त्रिभिस्तथा ॥८१ ॥ चत्वार्याद्यानि ३२भिद्यन्ते लघुप्रस्तारयोगतः। प्रत्येकमेकादशधा मन्दिराण्यभिधानतः ॥८२ ॥ अन्ये चतुर्धा भिद्यन्ते प्रत्येकं द्वे तथान्तिमे। एकमुषादिको भेदस्तद्वाह्याबाह्यहेतुकः ॥८३ ॥ वसुधारं भवेत्तेषामाद्यं सिद्धार्थकं ततः। कल्याणकं शाश्वतं च शिवं कामप्रदं तथा ॥८४ ॥ श्रीदशान्तं निष्कलंकं ३३नीवीसञ्ज्ञं च ३४पूरकम्॥ सिद्धार्थमनुयायीनि गृहाण्येकादशक्रमात् ॥ ८५ ॥


२८. वर्गाणां C वर्णाणां in D,E २९. वित्त in C,D,E ३०. सूर्प in A ३१. कारिका in B, C, D, E ३२. भेद्यन्ते in A ३३. निवि in D, E ३४. पुरुषां in A

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक) · पृष्ठ 192, कुल 296 में से · BharatKosha