भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 194, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 194

158 वास्तुमण्डनम् संहारं यमसूर्यं च कालं ३५वैवस्वतं यमम्। करालं विकरालं च कबन्धं मृतकं शवम्॥८६॥ यमसूर्यस्य भेदेन कथितं महिषं तथा। प्रचण्डचण्डे दण्डाख्यमुद्दण्डं काण्डकोटरे॥८७॥ विग्रहं निग्रहं धूमं निर्धूमं दन्तिदारुणम्। इत्येकादशभेदास्तु दण्डे दण्डभयप्रदाः॥८८॥ मरुत्पवनवाताख्यमनिलं सप्रभञ्जनम्। धनाख्यं मोदविध्वंसि प्रलयं कलहं कलिः॥८९॥ कलिशूलञ्च वातस्य भेदा उद्वेगदायकाः। रोगं चुल्ल्यनलं भस्म चुल्लीभेदचतुष्टयम्॥९०॥ काचस्यानुच्छलङ्काचं कुलघ्नं च विरोधकम्। द्विपञ्चाश३६ द्विशालानि नामभेदेन निर्दिशेत्॥९१॥ प्राग्दक्षिणगतेऽलिन्दे वसुधारं धनप्रदम्। प्राक् पश्चिमे तु सिद्धार्थं सर्वोपद्रववर्जितम्॥९२॥ याम्यापरस्थे कल्याणं शाश्वतं पूर्वसौम्यगे। शिवं याम्योत्तरेऽलिन्दे ३७कामदं पश्चिमोत्तरे॥९३॥ मुखे द्वौ पश्चिमे चैकः श्रीपदं सम्पदे प्रभोः। पूर्वयाम्योत्तरेऽलिन्दः शान्तं शान्तिप्रदायकम्॥९४॥ प्राक् पश्चिमोत्तरेऽलिन्दे निष्कलङ्कं समृद्धिकृत्। याम्यापरोत्तरेऽलिन्दे धनेशं धनवर्धनम्॥९५॥ ३५. विवस्वतं in A ३६. शालानां नमभेदानि in A ३७. B, C, D, E, omit from v 93d to 95a