वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 196, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 196
160 वास्तुमण्डनम् मुखे द्वौ सौम्यतश्चैकः कुवेरं वित्तवृद्धिकृत्। संहारादीनि दिग्भेदादे ३८भिरेव क्षणैर्विदुः ॥९६॥ रोगं प्राग्याम्यगेऽलिन्दे चुल्ली याम्यापरस्थिते। अनलं पश्चिमे सौम्ये ३९भस्माख्यं पूर्वसौम्यगे ॥९७॥ उदङ्मुखाभ्यां मूषाभ्यां काचभेदे ४०छलं गृहम्। प्राग्याम्योत्तरगे काचं कुलघ्नं दक्षिणे द्वये ॥९८॥ दक्षिणापरसौम्यस्थे विरोधं स्याद्गृहं क्षणे। उक्ता ४१न्येवं द्विपञ्चाशद्द्विशालानि समासतः ॥ ९९ ॥ तथा च ॥ द्विशालं शोभनं वेश्मपूर्वोत्तरमुखं सदा। पूर्वोत्तरास्यं सिद्धार्थं लाङ्गलं सौख्यदायकम् ॥१००॥ मत्स्यपुराणेऽपि। सिद्धार्थं वर्ज्यं वर्ज्यानि द्विशालानि सदा बुधैः ॥१०१॥ इति द्विशालानि ॥ अथ त्रिशालानि चतुर्गुरूणां प्रस्तारे त्रिशालानि ध्रुवादिवत्। गृहे सप्तदशे कार्यं चतुर्दिक्षु लघुद्वयम् ॥ १०२ ॥ अष्टादशे त्रिशाले तु मध्ये षट्दारुकं न्यसेत्। पूर्वादिद्वारभेदेन त्रिशालानि द्विसप्ततिः ॥ १०३ ॥
३८. भिरेव in A, B ३९. तस्याक्षं in B, E ४०. बलं in A ४१. न्येकं in A, C, D, E