वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 198, कुल 296 में से
संदर्भ में पढ़ें162 वास्तुमण्डनम् कालदण्डं तु पूर्वास्त्यं सुनाभं दक्षिणामुखम्। जयन्तमाद्यं वारुण्यां सौभाग्यं रिपुमर्दनम् ॥१०४॥ ⁴²कालदण्डं प्रचण्डं च श्रीजयं च धनावहम्। मायासद्मं महाकान्तं मनोहररमाप्रिये ॥१०५॥ ⁴³विमुख्यं क्रोधनाख्यं च स्वामिभक्तं धनेश्वरम्। कालाख्यं विकरालं जनप्रियं सिद्धिकामदम् ॥१०६॥ प्रीतिमुखा सर्वलाभमुद्भवं रसदारुणम्। सुनाभं च शुभं शान्तं जयं च विभवोद्भवम् ॥१०७॥ कुवेरं यक्षपक्षाख्यं विवक्त्रं कलिसौम्यके। सुवक्त्रं क्षयं कालाख्यं विपुलं राज्यवर्धनम् ॥१०८॥ आत्मकं दारुणाख्यं च सुनाभादीन्यष्टादश। जयन्तं भासुरं भीमं श्रीजयं ⁴⁴च विशालकम् ॥१०९॥ शस्तं च शाश्वतं सारं दुर्दर्यं क्रोधनं तथा। सौख्यं पुष्टं च जानीयादभयं घोरमीश्वरम् ॥११०॥ आनन्दं शुभपत्रं चोत्तुंगमष्टादशं मतम्। रिपुमर्दनं सुनेत्रं बलं चाति⁴⁵बलं तथा ॥१११॥ अशुभं च शिवं सर्वात्मकं ⁴⁶विशालमित्यपि। शिवं सर्वलवैशाद्धं क्रूरं च श्रीकरं प्रभम् ॥११२॥ ४२. Similar verses in A.P ch93 8–9 ४३. B, C, D, E विमुखं ४४. A वा ४५. B, C, D, E बलाशुभम् ४६. B, C, D, E वैशालम्