वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 200, कुल 296 में से
संदर्भ में पढ़ें164 वास्तुमण्डनम् कालनेत्रं विनेत्रं लक्ष्मीधरं श्रियः पतिः । महाजयं जयाख्यं चाष्टादशं नामवत्फलम् ॥११३॥ यथा युग्मोद्भवा भेदाः स्युर्द्विशालत्रिशालयोः । तथा युक्त्या विधातव्याश्चतुःशालगृहेष्वपि ॥११४॥ मत्स्यपुराणे सौम्यशालाविहीनं यत्त्रिशालं धन्यं हि तत् । क्षेमवृद्धिकरं नृणां सर्वव्याधिभयापहम् ॥११५॥ शालया पूर्वया हीनं ⁴७सुक्षेत्रमिति विश्रुतम्। धन्यं यशस्यमायुष्यं शोकमोहविनाशनम् ॥११६॥ चुल्ली तु याम्यया हीनं त्रिशालं चैव [क] शालया । कुलक्षयकरं नृणां सर्वव्याधिभयावहम् ॥११७॥ हीनं पश्चिमया यच्च पक्षघ्नं नाम विश्रुतम् । मित्रबन्धुसुतान् हन्ति तथा सर्वभयङ्करम् ॥११८॥ इति त्रिशालानि। अथ चतुःशालानि ॥ प्रस्तारेऽष्टगुरूद्भूते सुनाभादीनि नामतः । चतुःशालगृहाणि स्युः षट्पञ्चाशं शतद्वयम् ॥११९॥ इति श्रीसूत्रधारमण्डनविरचिते ⁴८वास्तुशास्त्रे वास्तुमण्डन शालादिगृहलक्षणोऽध्यायः षष्ठः ॥ श्लोकाः ॥११९॥
४७ B, C, D, E omit V 116 bcd, and v 117a ४८ वास्तु मण्डने वास्तुशास्त्र in BCDE