भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 202, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 202

सप्तमोऽध्यायः [दूषणभूषणानि] गृहारम्भे गेहकर्तुर्विनाशः शिल्पिसम्भ्रमे । स्तम्भस्कन्धाच्च्युते कुम्भे शिरोरोगं विनिर्दिशेत् ॥१ ॥ कुम्भापहारे सर्वस्य कुलस्यापि क्षयो भवेत्। मृत्युः स्थानाच्च्युते कुम्भे स्तम्भे भग्ने तथा विदुः ॥२ ॥ करसंख्याविनाशे तु नाशं गृहपतेर्विदुः । बीजौषधिविहीने तु भूतेभ्यो भयमादिशेत् ॥३ ॥ स्तम्भाः भयरङ्कराः पूर्वं योजिता अप्रदक्षिणाः । हीनाधिकां गतौ वास्तौ सर्वथा तु विवर्जयेत् ॥४ ॥ प्रासादो देवराज्ञो वै त्यजे^१त्प्रासादजं गृहम्। सिंहकर्णकपोताली सिंहसम्बरणध्वजान् ॥५ ॥ कपिशीर्षाणि कलशं दण्डमामलसारकम्। स्तम्भं सभद्रं वाष्टास्रं वृत्तं सरूप^२पल्लवम् ॥६ ॥ कुम्भी सभद्राभरणं पल्लवाद्यं च किन्नरान्। पत्रशीर्षं कुमाराढ्यं रूपं लेपविनिर्मितम् ॥ प्राग्भू कुम्भी विना शैलं न कुर्याद्द्वर्णवेश्मसु ॥७ ॥


१. देव राज्ञोस्या त्यजेत् in A देव राजोस्तु त्यजेत् in C