वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 204, कुल 296 में से
संदर्भ में पढ़ें168 वास्तुमण्डनम् मयः ॥ गृहे स्तम्भः शुभो वृत्तः षडष्टास्र कलास्रकः । शिला देवालये ग्राह्या द्विजावनिपयोरपि ॥८॥ पाषण्डिनां च कर्त्तव्या न कार्या वैश्यशूद्रयोः । क्रियते यदि मोहेन धर्मकामार्थनाशकृत् ॥९॥ तथा च ॥ इतिहासपुराणोक्तं वृत्तान्तं प्रतिरूपकम् । निन्दितं च गृहे नेष्टं शस्तं देवकुले च यत् ॥१०॥ करालं भीषणं रौद्रमशस्तं दुष्टमेव च । गृध्रकङ्ककपोतादि कपिसंग्रामभीषणम् ॥११॥ वर्जयेद्गृहचित्रेषु श्रेयस्तत्र न विद्यते ॥१२॥ भोजः ॥ यानीन्द्रजालतुल्यानि यानि मिथ्याकृतानि च । भीषणानि च यानि स्युर्न ³कुर्यात्तानि ॥१३॥ नग्नं तपस्वीलीलां च मायादीनि न योजयेत् । प्रेताः पिशाचाः रक्षांसि क्रव्यादा मृगपक्षिणः ॥१४॥ मृगर्क्ष व्याघ्रमार्जारवराहद्वीपिजम्बुकाः । तरक्षुखरकंकोष्ट्रप्रमुखा वा निशाचराः ॥१५॥ गृहे न कार्या ⁴वाद्यादौ व्याधिबन्धक्षयावहाः । नागदन्ततुलास्तम्भभित्तिमुखा गवाक्षकाः ॥१६॥ २. वल्लवम् in B ३. वेश्मनि in B, C, D, E, ४. वाटादौ। वायादौ in B, D, E