वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 206, कुल 296 में से
संदर्भ में पढ़ें170 वास्तुमण्डनम् क्षणमध्ये न दातव्या ५न चैते विषमाः शुभाः । ६प्राग्भूमेरूर्ध्वभूमिं च विस्तारे वोदयेऽधिकाम् ॥१७॥ ७संलग्नान्यासनं कुम्भी स्तम्भो भरणाशीर्षके । पट्टश्च तन्त्रिके मानिन ८कुर्यात्सर्ववेश्मसु ॥१८॥ अल्पलेपं बहुलेपं समसन्धिः शिरोगुरूः । सशल्यं पादहीनं च वास्तु शीघ्रं विनश्यति ॥१९॥ अन्यवास्तुचितं द्रव्यं न युञ्जादन्यवास्तुनि । प्रासादे न भवेत्पूजा गेहे क्रीडन्ति राक्षसाः ॥२०॥ मयः ॥ विनष्टवास्तुसंजातं द्रव्यं सर्वविपत्करम् ॥ तस्मात्सर्वप्रयत्नेन शुद्धद्रव्यं ९प्रगृह्यताम् ॥२१॥ अन्यपृष्ठे यदा चान्यत्प्रासादं मन्दिरं पुरम् । खादकं नाम तद्वास्तु परस्परविरोधकृत् ॥२२॥ कुक्षिद्वारं गृहे वापि यत्र स्यात्सुरसद्मनि । विभ्रमं नाम तद्वास्तु भ्रामयेत्तत्पतिं गृहात् ॥२३॥ कुक्षिभागे गृहं चान्यत्कुक्षिदन्त विरोधकृत् । अग्रोन्नतं न तन्मध्ये १०उद्धतं हन्ति सन्ततिम् ॥२४॥ अधिकं विस्तरे कर्णे पञ्चहस्ताधिकोच्छ्रयम् । यद्बहुद्रव्यकाष्ठाढ्यं न भवेच्छाश्वतं गृहम् ॥२५॥ ५. न वैते in B, D, E, ६. प्राग्भूमंमेरूभूमिं in B ७. संलग्राभ्यासनं in A, B, D, E ८. कुर्याद्र्णवेश्मसु in A ९. विधीयताम् in B १०. उद्धतं हते in A उद्धृतं in D उद्धृतं in E