वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 208, कुल 296 में से
संदर्भ में पढ़ें172 वास्तुमण्डनम् भोजः ॥ द्रव्यं द्रव्याधिकं हन्ति कुलमायामतोऽधिकम् । उच्छ्रयाभ्यधिकं पूजां सन्ततिं विस्तराधिकम् ॥२६ ॥ कर्णशाला यदा लग्ना आग्नेयां दिशिमाश्रिताम् । अग्निदं नाम तद्वास्तु कुरुतेऽग्निभयं फलम् ॥२७ ॥ नैर्ऋत्ये बाह्यतो लग्ना नैर्ऋतं व्याधिमृत्युकृत् । ११वायव्ये शालिका लग्ना वायव्यं वायुभीतिदम् ॥२८ ॥ ईशाने बाह्यतो लग्ना दैविकं देवदोषकृत् । दिशायां विदिशायां वा वास्तुवेधविशोधनम् ॥२९ ॥ जीर्णे नीचानां नीचमेवेष्टं श्रेष्ठानां श्रेष्ठमिष्यते । नवतरे वापि वेधदोषं विवर्जयेत् । श्रेष्ठमानं निकृष्टानां सर्वथा न प्रयोजयेत् ॥३० ।। अधोभूमिक्रियायुक्तिः स्यादूर्ध्वोर्ध्वतलं प्रति ।३१ ॥ विपरीते विपत्तिः स्यादिति शास्त्रार्थनिश्चयः ॥ कुर्याद्ब्रह्मपदं न्यस्तो भार १२पट्टः कुलक्षयम् ॥३२ ॥ ब्रह्मस्थलोर्ध्वगद्रव्यसन्धानं विपदां पदम् । ब्रह्मस्थानस्थितः स्तम्भः स्वामिनस्तु विनाशनम् ॥३३ ॥ तुलादीन्युपरि १३द्रव्याण्यत्र दोषो न विद्यते । गर्भाधानञ्च क्रमणं स्वभित्तिं मुखवासके ॥३४ ॥ १४शिलास्तम्भतलं कुंड्यं नृणां वासे न कारयेत् । अन्योन्यद्रव्यविद्धं च हीनमित्युत्तमाङ्गकम् ॥३५ ॥ ११. व्यायव्ये A, B, D १२. प्रद in A १३. द्रव्याणामत्र in D द्रव्याणां यत्र E १४. Similar veres are found in Mayamatam ch 27 v 95