वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 210, कुल 296 में से
संदर्भ में पढ़ें174 वास्तुमण्डनम् त्यक्त श्रेण्यूर्ध्वमूलस्थस्तम्भं स्तम्भविवर्जितम् । गृहं हीनाधिकं स्तम्भं विषमस्थं तुलातलम् ॥३६॥ आदि१५पदानुसारेण १६न्युनाधिकायुतं बहिः । भिन्नं प्राग्भुविमुखाभिद्वारै रंविकरानिलैः ॥३७॥ मुखे नतं हीनमध्यं १७पट्टानुगजलप्लवम् । भिन्नशालं मानहीनं दुष्पदं प्रविभाजितम् ॥३८॥ विकृतं च गृहं भर्तुरनिष्टफलदायकम् । मूलगृहात्समीपस्थं कुर्यान्नोच्चं १८न चाधिकम् ॥३९॥ यत्स्यान्मुखविनिष्क्रान्तं चलितं तत्प्रकीर्तितम् । वलितं पृष्ठनिष्क्रान्तं दिङ्मूढं भ्रान्तमुच्यते ॥४० ।। विसूत्रं कर्णहीनं स्यात्फलमेषां प्रचक्षते । चलिते चलति स्थानं बलिते विग्रहो भवेत् ॥४१॥ भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् । भर्तुस्तुल्याभिधानं च गृहं दूरात्परित्यजेत् ॥४२॥ सर्वदोषकरी ज्ञेया गर्भे चन्द्रावलोकनी । मुखाद्वित्तविनाशाय कामोच्छित्यै गवाक्षकः ॥४३॥ द्वौ स्तम्भौ क्षणमध्ये वा दद्याद्गर्भं न पीडयेत् । एकोऽलिन्दो न कर्तव्यो वामतः पृष्ठतस्तथा ॥४४॥ १५. पट्टा in A १६. न्यूनाधिक्य in B, D, E १७. पदा in B, C, D, E १८. नवा in B, C, D, E