भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 212, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 212

176 वास्तुमण्डनम् भोजः ॥ यद्द्विशालं त्रिशालं वा चतुःशालमथापि वा । अलिन्दरहितं वेश्म तदनिष्टफलप्रदम् ॥४५ ॥ ग्रन्थान्तरे ॥ पुरतः पृष्ठतः पार्श्वे यदि वाऽलिन्दवर्जिता । न शस्यते शाला देवागारे तु शस्यते ॥४६ ॥ न देवधूर्त्तसचिवःचत्वाराणां समीपतः । कारयेद्भवनं प्राज्ञो दुःखशोक १९भयं ततः ॥४७ ॥ तथा च । सुरवैरिनृपामात्यचौरपाषण्डपापिनाम् । चत्वारां त्यज धूर्त्तानां समीपे दुःखदं गृहम् ॥४८ ॥ न कुर्यादर्हतः पृष्ठे अग्रतः शिवसूर्ययोः । पार्श्वयो र्ब्रह्मविष्णोश्च गृहं चण्डयाः समन्ततः ॥४९ ॥ शिवसूर्यजिनादीनामन्तरे न शुभं गृहम् । मार्गश्चैको यदा गच्छेदुभयोर्गृह२० पार्श्वयोः ॥५० ॥ मार्गवेधस्तदा स स्याच्छोकसन्तापकारकः । गृहपृष्ठं समालोक्य प्रवेशो न शुभङ्करः ॥५१ ॥ मार्गान्तरे त्वादिभूमिः समभित्त्या न दूषणम् ॥ ५२ ॥ मत्स्यमते । स्तम्भं वा भवनं वापि द्वारं वासगृहं तथा । दिङ्मूढे कुलनाशः स्यान्न च सम्बद्धयेद्गृहम् ॥५३ ॥ १९. फलं in A २०. पृष्ठयो in B