भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 214, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 214

178 वास्तुमण्डनम् यदि सम्बर्द्धयेद्गेहं सर्वमेव विवर्द्धयेत्। प्राग्वर्धिते मित्रवैरं याम्ये शत्रुभयं गृहे ॥५४॥ पश्चिमेऽर्थविनाशस्यान्मनस्तापस्तथोत्तरे। आग्नेयेऽग्निभयं विन्द्याद्राक्षसे तु शिशुक्षयम् ॥५५॥ २१वायव्येऽनिल २२रुक्कोपं ईशाने शस्यसंक्षयम् ॥५६॥ मयः॥ वृद्धिं गृहादिवास्तूनामिच्छेद्यदि समृद्धितः। प्रागुत्तरे सर्वतो वा वर्धयेन्नान्यतो गृहम् ॥५७॥ ग्रन्थान्तरे। संवर्धनं च वास्तूनां वास्तुसम्बरणानि च। द्वाराणां परिवृत्तिश्च मृत्यवे स्यान्न संशयः ॥५८॥ मयः। इष्टव्यासायामं प्रागेवालं विचिन्त्य कर्तव्यम्। तस्माद्धीनं यत्तत्सततं विपदांपदं भवति ॥५९॥ भोजः। स्थापितद्वार२३ संरोधे गृहिणो जायतेऽश्मरी। कृतानि यत्र चीयन्ते गवाक्षालोकनानि च ॥६०॥ तत्र प्रसूतिर्न भवेन्निष्पन्नापि विनश्यति। कुड्यं भित्त्वा न कर्तव्यं द्वारं तत्र सुखेप्सुभिः ॥६१॥ २१. व्ययब्ये. in A २२. सष्कोपं. in A २३. मम्बोध. in DE