वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 216, कुल 296 में से
संदर्भ में पढ़ें180 वास्तुमण्डनम् द्वारे च जलनिःस्रावं नैव कुर्याद्विचक्षणः । निम्नोन्नतं करालं च सम्मुखं पृष्ठदेशगम् ॥६२ ॥ वामावर्त्तं च न शुभं द्वारमग्रतरं गृहे । स्तम्भं द्वारं च भित्तिं च विपरीतं न कारयेत् ॥६३ ॥ कटुकण्टकि दुर्गन्धिः गुह्यकाद्याश्रयान्द्रुमान् । न धारयेत् समीपस्थान्पुरप्रासादवेश्मनाम् ॥६४ ॥ २४शालासु भिन्नशालासु सन्धिकर्म न कारयेत् । देवतास्थापनं पिण्डशालासु न विधीयते ॥६५ ॥ अन्योन्यसन्धिबद्धं च शिखा कीलस्य वेधनम् । धर्मार्थकामसौख्यानां विनाशं नित्यमादिशेत् ॥६६ ॥ अज्ञैः सन्तापवद्भिर्वा परद्रव्यैश्च निर्मितम् । त्वरितं २५पूर्णतां नीतं स्थपतिद्वयकारितम् ॥६७ ॥ विनष्टवास्तुसञ्जातद्रव्यैरपि विनिर्मितम् । अतृप्तवास्तुदेवं यद्गर्भन्यासवर्जितम् ॥६८ ॥ अक्रमेण कृतं वापि वास्तु तद्याति शून्यताम् । अनुवंशं न भुञ्जीत न शयीत कदाचन ॥६९ ॥ भुञ्जानस्यार्थनाशस्याच्छयानस्य न निवृत्तिः । यत्र भुक्तं यथास्थानं पात्रधान्याम्बरादिकम् ॥७० ॥ भग्नभाण्डगतं चान्नं मुखवातोपसाधितम् । रजस्वला श्वा न दृष्टं सन्ध्ययोर्वा विदिङ्मुखम् ॥७१ ॥ २४. Similar verse in Mayamatam ch 27 v 73 cd 74 ab २५. पूर्णतानान्तं in A