वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 218, कुल 296 में से
संदर्भ में पढ़ें182 वास्तुमण्डनम् भग्नासनगतैर्यद्वा २६आसन्दीस्थैश्च भुज्यते । यत्रोपघातवत्किञ्चिद्भक्ष्यं पेयमथापि वा ॥७२ ॥ पंक्तिभेदो वृथापाकः पाकभेदः सदाकलिः ॥७३ ॥ आभ्युक्षणं च संध्यायां यत्र कण्टकिनो द्रुमाः । भार्या पुनर्भूवल्मीकं यत्र निष्पातवल्लरी ॥७४ ॥ मुसलोलूखले स्त्रीणामास्या ( ? ) तद्वदुदुम्बरे । २७मन्त्रस्यावस्करे शस्त्रः पक्वा पक्वान्नलङ्घनम् ॥७५ ॥ स्थालीपिधाने वा दर्व्यास्तलेनाग्निसमर्पणम् । उच्चैर्वदन्ति वा रात्रौ नीचैर्ज्वलति वानलः ॥७६ ॥ पितॄनभिवन्दत्येवं पुत्रभार्यास्तथा पतीन् । यत्र धान्यं विप्रकीर्णं काकमूषिकभोजनम् ॥७७ ॥ अपावृतं पयस्त्विष्टे उच्छिष्टैः स्पृश्यते घृतम् । बालानां प्रेक्षमाणानां वृद्धा भक्ष्यं च भुञ्जते ॥ ७८ ॥ पाचयन्त्यात्मनोऽर्थेऽन्नं वृथैवं मांसभक्षणः । उत्सूरशायिनो यत्र पुरुषाश्च प्रागे निशाः ॥७९ ॥ आश्रमस्थान्विधर्मस्थाः प्रद्विषन्ति परस्परम् । परस्वा २८दानुरुचयो विपण्यव्यवहारिणः ॥८० ॥ अशुश्रूषुर्गुरोः शिष्यो यत्र शिष्यसखागुरुः । शास्तिप्रेष्यांश्च भर्तारं गुरूणां परतो वधुः ॥८१ ॥ कृतघ्ना नास्तिकाः पापा निर्मर्यादा हतः त्विषः । अभक्ष्यभक्षिणो यस्मिन्नाचाररहिता नराः ॥८२ ॥ २६. आदिस्यैश्च तु in B, C, D, E २७. मन्त्रश्चाव in B, C, D, E २८. दान्नरु in A