वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 220, कुल 296 में से
संदर्भ में पढ़ें184 वास्तुमण्डनम् भर्त्तादीपश्च भवने यत्र पश्यति मार्जनीम्। अमार्जितानि भाण्डानि तत्रालक्ष्मीभयं सदा ॥८३॥ वेदशास्त्रविहीनं यन्नास्तिका क्रान्तमद्द्विजम्। ऊर्णनाभादिलालाभिः कीर्णं संस्कारवर्जितम् ॥८४॥ स्त्रीजितं स्वामिहीनं च लिङ्गिभिः परिवारितम्। श्लेष्मवातोच्छिष्टमलैः प्रलिप्तं गोरसादिभिः ॥८५॥ केशभस्मतुषाङ्गारप्रेतवृक्षैर्युतं गृहम्। कपालास्थिसमाकीर्णं श्वापदैः परिपूरितम् ॥८६॥ मार्जारनकुलादीनां संघुष्टं कलहारवैः। द्रव्याश्मकाष्ठैर्देवानां पूर्णं तद्विलयं व्रजेत् ॥८७॥ तस्माद्दोषान्परित्यज्य शुभं ग्राह्यं गृहादिषु ॥ ८८ ॥ अथ शुभानि- सुमङ्गलकथोपेतं सुश्रद्धाह्याष्टरूपकम्। वृषाजविषमध्वाज्य वीणाभरणचन्दनैः ॥८९॥ ताम्रपात्रहयादर्शस्वर्णैर्नित्यं समन्वितम्। सदानुलिप्तं सन्ध्यासु गृहमम्बुसमुक्षितम् ॥९०॥ कृतपुष्पबलिं नित्यं सूर्यावेक्षितदीपकम्। नित्याग्निसलिलं सूर्योद्दिष्टं ²⁹श्रेयं श्रियःप्रदम् ॥९१॥ यत्र देवपितृब्रह्माऽतिथिगुर्वर्चनं सदा। मिथो मैत्रीबालवृद्धं बन्धुं स्वजनयोषिताम् ॥९२॥
२९. Omitted in BD