भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 222, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 222

186 वास्तुमण्डनम् सुशीला योषितो योग्यं वयः शयनासनम्। तिष्ठत्सु गुरुवृद्धेषु कनीयांसो न चासते ॥९३ ॥ यत्र पद्मो महापद्मौ सुरभिर्मोदकाशिनी। वृषभैरावतौ ३०तद्वत्कल्यं ते धान्य३१सञ्चयः ॥९४॥ अशस्त्रा देवता यत्र सशस्त्राश्चहवं विना। आश्वासनं विषण्णार्त्तदीनानां त्रस्तरोगिणाम् ॥९५ ॥ यत्र भूतदयादानं तपः शौचं तथोद्यमः। बहुद्वाराणि न यत्र गृहे तत्र सुखं श्रियः ॥९६ ॥ इति श्री सूत्रधारमण्डनविरचिते ३२वास्तुशास्त्रे वास्तुमण्डने दूषणभूषणाध्यायः सप्तमः श्लोकाः ९६ ॥


३०. omitted in B, D ३१. सेचयः in B ३२ वास्तुमण्डने वास्तुशास्त्रे in B, C, D, E,