वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 224, कुल 296 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः [प्रकीर्णकाध्यायः] गृहप्रकाराः शाला तु शुद्धा सम्बद्धा संयुता च परिभ्रमाः ॥ छन्दभिन्ना प्रतिभिन्ना सम्पुटा च प्रतिक्रमाः ॥१ ॥ अलिन्दरहिता शाला शुद्धोक्ता केवला बुधैः । अग्रालिन्देन सहिता सम्बद्धा स्याद्दशान्तकम् ॥२ ॥ अलिन्दवेष्टिता बाह्ये शालाश्रेणिस्तु संयुताः । पृथगैकैकशालाया अलिन्दश्चान्तरे यदा ॥३ ॥ परिभ्रमा तदा ज्ञेया सर्वशान्तिकरी नृणाम् । छन्दभिन्नापवरके फलकेभित्तिकान्तरे ॥४ ॥ शालामध्ये तु षड्दारौ प्रतिभिन्ना सदोत्तमा । भित्तिमध्ये यदालिन्दास्तथा बाह्ये च सम्पुटा ॥५ ॥ पृथक्शालाग्र कपिलाद्यलिन्दाग्रे प्रतिक्रमा । गृहमाला गृहनाभिः गृहसंघट्ट एव च ॥६ ॥ गृहाणकश्च विज्ञेयं गृहभेदचतुष्टयम् । गृहमाला गृहैः कुक्षौ पृष्ठेऽग्रे पंक्तितः स्थितैः ॥७ ॥ दिग्विदिक्ष्वग्रतः पृष्ठे कुक्षौ संघट्ट ईरितः । नानाकारापवरकैः सालिन्दैर्गृहनाभिका ॥८ ॥