भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 228, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 228

192 वास्तुमण्डनम् दक्षिणे पश्चिमे हीनशालं सूर्पं तु दोषदम् । लाङ्गलं गणिकादीनां सूर्पमुग्रोपजीविनाम् ॥१७ ॥ लाङ्गले चैव सूर्पे च पृथक्शालासु सर्वदा । शालाविरहितस्थाने कुड्यद्वारं प्रयोजयेत् ॥१८ ॥ ८द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यके । द्वारगोपुरमियेवं पञ्चभेदं हि गोपुरम् ॥१९ ॥ ९अथ श्रीधरादिप्रासादाः ॥ एकभागश्चतुःस्तम्भश्चतुर्द्वारः सजालकः । छाद्यघण्टायुतो माडशोभितःश्रीधरो मतः ॥२० ॥ पञ्चयुग्मकरे क्षेत्रे सार्धत्रिंशद्विभाजिते । मध्ये नवपदं कार्यं भागार्धं भित्तिकाद्वयम् ॥२१ ॥ मध्यं तु षोडशस्तम्भं स माडं पञ्चभूमिकम् । भद्रं सार्धं द्विभूमं स्याच्चतुःस्तम्भं च भागिकम् ॥२२ ॥ चतुर्दिक्षुश्चतुर्द्वारः प्रतापवर्धनः शुभः । तत्र त्र्यंशायतं भद्रं मुखभद्रं च भागतः ॥२३ ॥ प्रतिभद्रं दशस्तम्भाः षट्शरा मध्यबाह्यगाः । भद्रे माडं द्विभूम्योर्ध्वे गृहे पञ्चतलोर्ध्वतः ॥२४ ॥ ८. Similar verse in Mayamatam ch 24 v.11 ९. Mss DE write following verses :- श्रीधरश्चैव प्रासादः प्रतापवर्द्धनः परः । लक्ष्मीनिवाससंज्ञश्च श्रीनिवासश्चतुर्थकः ॥ क्षोणिभूषणनामानो पृथ्वीजयश्च षष्टमः । षट्ष्वेतेषु च प्रासादे श्रेष्ठः स्यादुत्तरोत्तरः ॥