भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 230, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 230

194 वास्तुमण्डनम् लक्ष्मीविलासः प्रासादो नृपाणां तनुते श्रियम्। क्षेत्रैशैः पञ्चविंशत्या स्तम्भैः षट्त्रिंशतायुते ॥२५॥ दशमांशसमा भित्तिः चतुर्द्वारं प्रकारयेत्। भद्रं नवांशमेकांशः मुखभद्रत्रयान्वितम् ॥२६॥ सार्धं त्रिभूमिकं सर्वे स्तम्भाजिनयुतं शतम्। माडो त्रिपञ्चभूम्यर्थे श्रीनिवासः श्रियःप्रदम् ॥२७॥ अष्टाष्टभक्ते क्षेत्रे तु गर्भः स्यात् सप्तभागिकः। भित्तिरर्धांशकामध्ये चतुःषष्टिधरान्वितः ॥२८॥ चतुर्द्वारोऽत्र भद्रं तु पञ्चविंशतिभागिकम्। भद्रे त्र्यैकांशकं तत्र प्रतिभद्रत्रयं न्यसेत् ॥२९॥ भद्रे स्तम्भाश्चतुः पञ्च सर्वेऽशीत्या शतद्वयम्। भद्रे माडं त्रिभूम्योर्ध्वं गृहे षड्भूमिकोपरि ॥३०॥ १०•क्षीणीभूषणसंज्ञोपमा वासो भोगसौख्यदः। क्षेत्रे तु दशभिर्भक्ते द्वे भित्ती भागमानतः ॥३१॥ शतस्तम्भं युतं मध्यं सार्धसप्ततान्वितम्। सप्तपञ्चत्र्येकभागे भद्रेऽष्टाविंशतिर्धराः ॥३२॥ सार्धं त्रिभूमे सर्वत्र स्तम्भाः ११•सार्धशतद्वयम्। पृथ्वीजयोऽयं प्रासादो राज्ञो सुखजयप्रदम् ॥३३॥ पञ्चविंशतिहस्तादेरष्टोत्तरशतावधिः। प्रतापवर्द्धनादीस्तु यथायोग्यं प्रकारयेत् ॥३४॥


१०. क्षीणी in B ११. सार्कं in B