वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 232, कुल 296 में से
संदर्भ में पढ़ें196 वास्तुमण्डनम् एतांस्तु राजप्रासादान् गवाक्षछाद्यजालकैः । सिंहघण्टासंवरणैः सदण्डकलसध्वजैः ॥३५ ॥ सिंहकर्णकपोतालीकपिशीर्षैर्विभूषयेत् ॥३६ ॥ अथ सभा । क्षेत्रे षोडशभक्ते तु मध्यं स्याच्चतुरंशकम् । बाह्य एकांशकोऽलिन्दः सभा नन्देति सा मता ॥३७॥ भद्रा द्विभागभद्राढ्या चतुर्भद्रैर्युता जया । द्विद्व्यलिन्दा चतुर्दिक्षु पूर्णा भद्रैर्युता मता ॥३८॥ क्षेत्रे नवांशे तु कलास्तम्भैर्दिव्या सभा मता । भद्रैश्चतुर्भिः सा यक्षी त्र्यंशद्व्यंशैस्तु रत्नजा ॥३९॥ उत्पलांशं प्रतिभद्रैर्भूषयेत्ताः सुतोरणैः । निर्यूहमदला१२लूपवितानाढ्यैः सुरूपकैः ॥४०॥ नक्रैः करिहरिव्यालशाल१३भञ्जीगणादिभिः ॥४१॥ अथ मण्डपाः । स्तम्भान्तरं तु सार्धं त्रिहस्तात्ससकरावधिः । एक द्वि-त्रि-चतुः पञ्चभागे भित्त्यन्तरे कृते ॥४२॥ तदेकभाग आयामो विस्तारादधिको भवेत् । सार्धत्रिहस्तात्सप्तान्तं मण्डपस्योदयो मतः ॥४३॥ षण्मात्रात्करपर्यन्तं १४मण्डपे स्तम्भविस्तरः ॥४४॥ १२. लूमा in BD १३. स्तम्भ in B, D १४. मंडरूपेकोभविस्तरः in B