वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 234, कुल 296 में से
संदर्भ में पढ़ें198 वास्तुमण्डनम् अथ गृहमण्डपाः। युगास्रः षोडशस्तम्भः समर्थो नाम मण्डपः। द्वि द्वि स्तम्भविवृद्ध्या तु भद्रभेदेन संयुताः ॥४५॥ भूधरो दक्षसंज्ञश्च देवाक्षः क्षितिभूषणः। कार्या द्विजातिवर्णानां पञ्चैते गृहमण्डपाः ॥४६॥ अथ वेदिका॥ चतुष्कोणा तु या वेदी स्वस्तिका सा शुभासये। विवाहेष्वासने यज्ञे राज्ञां देवार्चनादिषु ॥४७॥ चतुर्भद्रैर्युता भद्रा लिङ्गादिस्थापने हिता। श्रीधरो कोणविंशत्या देवतास्थापनेऽर्चने ॥४८॥ वेदी पद्मदलाकारा वसुकोणा तु पद्मिनी। १५देवपूजाप्रतिष्ठाभिषेकनीराजनादिषु ॥४९॥ विप्रादीनां क्रमात्सप्तषट्पञ्चयुगहस्तकः। त्रिद्व्येकहस्तहीनानां १६व्यास त्र्यंशोन्नता शुभा ॥५०॥ विवाहेऽब्धिकरा वेदी गृहस्यैशेऽथ वामतः ॥५१॥ अथ सिंहासनम्। दैर्घ्ये सिंहासनं कुर्या१७दुन्नतं षष्टिमात्रकम्। पञ्चाशदङ्गुलं मध्यान्तैश्चत्वारिंशता परम् ॥५२॥ १५. देवी in A [L21