वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 236, कुल 296 में से
संदर्भ में पढ़ें200 वास्तुमण्डनम् $^{१८}$व्यासे दशाङ्कवस्वंशहीनं $^{१९}$दैर्घ्यार्धमुन्नतम् । व्यासे शरांशे वा सप्तभागे भद्रं त्रिभागिकम् ॥५३ ॥ षडशीत्योदये भक्ते तत्र भिट्टं युगांशकम् । जाड्यंकुम्भं तु सप्तांशं कन्दमंशेन कारयेत् ॥५४ ॥ कणपालीं तु वेदांशां [शी] द्व्यंशमन्तरपत्रकम् । कर्णे द्विभागिकं कुर्याद् ग्रासपट्टी युगांशकम् ॥५५ ॥ गजा: शिवैर्हया नन्दैर्नराः सप्तभिरंशकैः । वेदी शुक्रे रसैः छाद्यं तिथिभिर्मत्तवारणम् ॥५६ विधेयास्तु नरा वेद्या एकांशेन विनिर्गताः । द्वाभ्यां हयास्त्रिभिर्नागा ग्रासपट्टीयुगांशकैः ॥५७ ॥ ततः कर्णो द्विभागेन कन्दो ग्रासवती समः । कन्दान्षडंशैः कणकं कन्दाच्च खुरकं शिवैः ॥५८ ॥ $^{२०}$भिट्टमेकांशकं तस्माच्चतुस्तम्भं सतोरणम् । समाडं घण्टाकलशं ज्येष्ठं स्तम्भैर्विनापि वा ॥५९ ॥ गजाश्वोनं तत्र सिंहैर्युतं तत्कीर्त्तिवर्धनम् । ज्येष्ठं गजहयैर्हीनं तोरणाढ्यं सुखासनम् ॥६० ॥ अथ गवाक्षः । गवाक्षो लुम्बिकाहीनस्त्रिपताकः स केवलः । द्विलुम्बिकः स्यादुभयो र्नन्द्यावर्त्तश्चतुर्युगः ॥६१ ॥ १८. ब्यासै/ब्यासं in ACDE १९. दैर्ध्यार्थ in B C, दैर्ध्याश्च in DE २०. एकहस्ते तु प्रासादे भिट्टं वेदाङ्गुलं स्मृतम् एकतः पञ्चहस्तान्तं हस्तेचैकैकमङ्गुलम् अ पृ ch १२३ v १९