वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 238, कुल 296 में से
संदर्भ में पढ़ें202 वास्तुमण्डनम् अष्टलुम्बि प्रियमुखो रविलुम्बिस्तु सन्मुखः। छाद्येनैकमुखः छाद्यपंक्तियुग्मे प्रियाङ्गकः ॥६२॥ पद्मनाभस्त्रिभिः छाद्यैर्दीपचित्रस्तु तैर्युगैः। विचित्रः पञ्चभिः छाद्यैः पञ्च भेदा २१इति पृथक् ॥६३॥ आयामेऽभ्यधिकः सिंहो हंसः स्याद्विस्तरेऽधिकः। बुद्धिश्चतुरस्रो सौमभद्रो बुद्धिसागरः ॥६४॥ गरुडः पक्षसहितो वामे दक्षे सजालकः। राजसेनासनछाद्यवेदिकामत्तवारणैः ॥६५॥ गवाक्षाः शोभिता राज्ञां सिंहजालैलकादिभिः। अनेकाकारविन्यासरन्ध्रैर्भिर्विराजितम् ॥६६॥ विदध्याज्जालकं धीमांस्तथा चन्द्रावलोकनम् ॥६७॥ अथ छाद्यम्। गृहोदयार्धनिष्क्रान्तं छाद्यं पट्टसमं शुभम्। करालं कुमुदाकारं कलापं २२सूर्प्सन्निभम् ॥६८॥ प्रलम्बं काकपक्षाभं तत् षोढाकारभेदतः। जलपट्टी तु पादांशा पिण्डे व्यासे गुणाङ्गुला ॥६९॥ २१. सूर्य in B २२. सूर्य in B