वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 240, कुल 296 में से
संदर्भ में पढ़ें204 वास्तुमण्डनम् मुखपट्टी तदग्रे तु पिण्डे सार्धद्विमात्रिका। ²³त्र्यङ्गुला विस्तरे श्रेष्ठा ततश्छाद्यं युगाङ्गुलम्॥७०॥ अङ्गुला विस्तरे दण्डाः सपादद्व्यङ्गुलोदयाः॥७१॥ अथ छत्रः॥ छत्रं व्यासे त्रिधा सार्धं द्वित्रिसार्धं त्रिभिः करैः। पञ्चाशदङ्गुलं दैवं दण्डो हेमचतुष्करः ॥७२॥ रत्नैः सार्धकरं यावत्काष्ठकाञ्चनरुप्यजः। विश्वातैर्विषमैर्दण्डश्चामरः पर्वभिर्युतः ॥७३॥ २४अथ अर्चापीठम्॥ अर्चापीठं तु षण्मात्रात्करावधिशुभद्रुमैः। वेदास्रमायतं वृत्तं व्यासपादान्तमुन्नतम्॥ ७४॥ मणिमुक्ताप्रवालार्कः रुप्यस्फटिकहेमजाम्। एकाङ्गुलाद्वितस्त्यन्तं प्रतिमां पूजयेद्गृहे ॥ ७५॥ दीपस्तम्भः कराद्रामहस्तान्त धातुदारुजः। सपीठकुम्भकलशःसकङ्कण २५फलः शुभः ॥ ७६॥ अथ शय्या॥ स्व-स्व व्याससमायामा शय्या दैर्घ्यार्धे विस्तरा। स्व-स्व हस्तसमोत्सेधा पादव्यासः षडङ्गुलः ॥७७॥ २३. अङ्गुला in ACDE २४. omitted in BCDE २५. कणः in A