भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 242, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 242

206 वास्तुमण्डनम् स्व-स्ववेदाङ्गुला व्यासे इष्टे पिण्डे गुणाङ्गुला ॥७८॥ वराहः ॥ हस्तात्सपादात् युग्मान्तं शय्या स्याद्द्विगुणायता। उच्चादैर्घ्यं तृतीयांशे पादे वा विविधाकृतिः ॥७९॥ प्रदक्षिणाग्रं काष्ठं स्याद्धीषायोगे शुभप्रदम्। शिरीषशिंशपाशाकचन्दनाञ्जनधन्वनाः ॥८०॥ देवद्रुमो२६ऽम्बुहारिद्रास्तिनिसः पनसोऽशनः। शालः कालार्जुनो निम्बः श्रीपर्णी तिन्दुकस्तथा ॥८१॥ मधुकः पद्मकः श्रेष्ठा यानशय्या२७सनेष्वपि। एकद्विदारुजा शय्या कार्या न बहुदारुजाः ॥८२॥ यवमध्याण्डपर्वा भाविकर्णा पितृत२८र्पिणी। स्वामिमानादत्यधिका ह्रस्वा शय्या न शोभना ॥८३॥ अथ शिविका ॥ शिविका सार्धहस्तादित्यङ्गुलर्धा त्रिधा २९पृथुः। दैर्घ्ये सपादा सार्धा वा व्यासकर्णमितापि वा ॥८४॥ दृढालोहे भदन्ताद्यैर्योग्येऽथ श्रीमतां नृणाम् ॥८५॥ अथ गृह३०प्रवेशः। निष्पन्ने न विशेच्छीघ्रं चिरं नापि विलम्बयेत्। गृहे श्रयन्ति भूताद्याः प्रवेशरहितं चिरम् ॥८६॥ २६. Reference of this Ambu tree is found in बृहत्संहिता Vol II, ch 79. V17. २७. सनेष्बिमे in A २८. तर्पणी in A २९. पृथु in A ३०. निवेशः in ACDE