वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 244, कुल 296 में से
संदर्भ में पढ़ें२०८ वास्तुमण्डनम् सौम्यायने दिने शुद्धे रिक्ता भौमार्कवर्जिते । रोहिण्यां ३१शतभे पुष्ये चित्रास्वात्युत्तराम्गे ॥८७॥ धनिष्ठापौष्णमैत्रेषु प्रवेशः शुभदो गृहे । प्रवेशे सूर्य३२सद्मानि स्ततो वेदेषु तूद्वसम् ॥८८॥ चतुर्थोऽर्थोऽब्धिषु श्रेयश्चतुर्थ कलहोऽन्वहम् । युगेषु गर्भनाशः स्यात् त्रिषु वासश्चिरं भवेत् ॥८९॥ सुखं कलशचक्रे स्यान्त्रिषु भेषु प्रवेशने । शुभे निमित्ते शकुने स्थिरे लग्ने स्थिरांशके ॥९०॥ ३३मूर्त्तादुपचये स्वीये राशौ लग्ने विधोर्बले । सौम्यै स्त्रिकोणकेन्द्रस्थैः केन्द्राष्टान्त्यं विना परैः ॥९१॥ त्रिषडायगतैर्वा तैः प्रवेशः शुभदो गृहे । माङ्गल्यैरङ्कुरैर्दीपैः स्रग्भिः कदलिभिर्युते ॥९२॥ अश्वत्थ३४चूत३५पत्राद्ये सकन्यातोरणे गृहे । वासयित्वा दिने पूर्वे ब्राह्मणान्सुरभीर्वृषान् ॥९३॥ तत्र होमं जपं कुर्यात् स्वाध्यायं स्वस्तिवाचनम् । तगरागरुकुष्ठाग्रा निशाभिस्तत्प्रलेपयेत् ॥९४॥ चन्दनादैर्भुवं सिक्त्वा निशायामधिवासनम् । गृहे पूर्वोत्तरे सूर्यदशाष्टकरमण्डपे ॥९५॥ ३१. श्रवणे in A ३२. भेद्दानि in BC ३३. मूर्त्तावुपचये in A ३४. कृत in C ३५. पत्राये in CD पत्रथि in B