भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 248, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 248

212 वास्तुमण्डनम् ततो गृहेशगेहिन्यो स्वजनाद्यैः समन्वितौ। विचिन्त्य जगदीशं स्वं विशेतां वस्तुमद्गृहम् ॥१०६॥ गृहिणी गृहदेवेभ्यो बलिं सव्यञ्जनो४१दकम्। ओं गृहदेवताभ्यो नम इत्युक्त्वा वितरेत्ततः ॥१०७॥ गृहाधिपः सुरान्विप्रान् स्थपतिं तक्षकानपि। रत्नैर्धनाम्बरैर्धान्यैः पशुभिश्चापि तोषयेत्। ततः स्वजनमित्राद्यैर्भोजनीयं गृहे श्रिये ॥१०८॥ सुतेन देवसिंहेन प्रार्थितः क्षेत्रनन्दनः। स्थपतिः सृजति स्मेदं मण्डनो वास्तुमण्डनम् ॥१०९।। इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे वास्तुमण्डने प्रकीर्णकाध्यायोऽष्टमः। श्लोकाः ।१०९॥ वास्तुमण्डनश्च सम्पूर्णः। सहयेद्देशते आद्ये २०७, ससाशीति द्वितीयके ८७, तृतीये पञ्चनवति ९५, रूपाग्न्येकास्तूरीयके। १३१, द्वात्रिंशत्पञ्चमे श्लोकाः ॥ ३२॥ भूद्वयेका रससंमिते १२१, सप्तमे पञ्चनवतिः, सादित्यं शतमष्टमे ॥११२॥ श्रीवास्तुमण्डने तन्त्रे अध्याये तु प्रकीर्णके एक्ये पुनः शतान्यष्टश्लोकाश्चाशीतिसम्मताः ।८८२॥ सम्वत् (१६७५) वर्षे श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे वास्तुमण्डने प्रकीर्णकाध्यायोऽष्टमः लिपिकृतः। यादृशं पुस्तके दृष्टं तादृशं ल (लि) खितं मया॥४३ ४१. दनम् in B ४२ ग्रंथसंख्या ८८० in B, D, in Ch ९८० ४३ Colophon in Ms B सम्वत् १७९७ माघवदि १२ गुरौ श्री उदयपुरराजधान्यां श्री पुराणा श्री जगत्सिंह विजयराज्ये भट्टभाई रामसुतो भट्ट नीलकण्ठोदम लेखि श्री रामो जयति। ० in Ms C सम्बत् १८१९ मिति माघवदि २ मंगल वासरायां लीपीकृतम् ० in Ms E सम्बत् १८९० शके १७५५ फाल्गुनशत्कउवस्व वै, श्रीरामो जयति,

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक) · पृष्ठ 248, कुल 296 में से · BharatKosha