भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 38, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 38

श्रीगणेशाय नमः । वास्तुमण्डनम् प्रथमोऽध्यायः [मिश्रकाध्यायः] स्रष्टारं जगतामीशमनेकाश्चर्यरूपिणम्। पालकं १सर्वसत्त्वानां वन्दे शक्तिमयं शिवम् ।।१।। वास्तुवे२दोदधेः कश्चित्सारमादाय मण्डनः। बालानामवबोधाय तनुते वास्तुमण्डनम् ।।२।। शस्ते मासे सिते पक्षे ३अतीते चोत्तरायणे। चन्द्रताराबले ४भर्तुः सुलग्ने च ५शुभे दिने ।।३।। पुरःप्रासादगेहानां वाप्याः कूप६तडागयोः। आराममठ७वास्तूनां प्रारम्भः सद्भिरिष्यते ।।४।। नन्दाभद्राजयारिक्ता८पूर्णाः ९प्रतिपदादिकाः। षष्ठ्या१०द्येकादशी११सर्वास्तिथयः पञ्चधा मता ।।५।। १. सर्वा-in A २. देदेधो-in A ३. आतीक्षे-in A अतीत इत्यनेन श्रावणमार्गयो र्ग्रहणमपि शब्दात् चकारेणोत्तरायणस्याचैत्रस्य त्यागः सूचितः । Marginal note in Ms. A. ४. कर्तु-in D, E ५. सुभे-in A ६. तटाक-in B ७. वास्तुनां-in A, B ८. पूर्वर्णा-in D, E ९. प्रदि-in B १०. द्यो-in A ११. पूर्वा-in A