वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 40, कुल 296 में से
संदर्भ में पढ़ें4 वास्तुमण्डनम् शुक्रे नन्दा बुधे भद्रा जया भौमे तथा तिथिः। शनौ रिक्ता गुरौ पूर्णास्तिथयः सर्व¹²सिद्धिदाः ।।६।। एकादशी गुरौ षष्ठी भौमे शुक्र ¹³त्रयोदशी। सिद्धयेर्केष्ट ¹⁴नन्देकाश्चन्द्रे नवदशद्विकाः ।।७।। ¹⁵सिद्धिदार्के शनौ रिक्ता¹⁶भद्रा चन्द्रे बुधेऽपि च। इत्याह मान¹⁷सोल्लासे ग्रन्थे सोममहीपतिः ।।८।। (मानसोल्लासः) मुशलः ¹⁸सतमी ¹⁹भानौ संर्वतः प्रतिपद्बुधे। कर्कस्त्रयोद²⁰शाङ्के स्या²¹द्द्वार ²²तिथ्य स्त्रयं त्यजेत् ।।९।। मघाविशाखार्द्रामूलं ²³कृत्तिका रोहिणीकरः। अ²⁴शुभेऽर्कादिवारेषु यमघण्टः प्रजायते ।।१०।। विशाखादिचतुष्केषु चत्वारोऽर्कादिषु क्रमात्। उत्पातमृत्युकाणाख्या सिद्धियोगाः शुभोऽन्तिमः ।।११।। हस्तो मृगोऽश्विनी²⁵मेत्रं पुष्यं ²⁶पौष्णं च रोहिणी। स्याद्योगेऽमृतसिद्धाख्यः सूर्यादौ सर्वसिद्धिदः ।।१२।। १२. कामदा-in A १३. क्रयो-in A १४. ना