वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 44, कुल 296 में से
संदर्भ में पढ़ें8 वास्तुमण्डनम् ⁴¹रवावेक⁴²द्विषट्शुद्धाश्चन्द्रेत्वष्टैक⁴³पञ्चमाः। ⁴⁴वेदसप्ताष्टमा भौमे बुधेऽष्टत्रिरसोन्मिताः ।। २० ।। गुरौ ⁴⁵द्विपञ्चमुनयः शुक्रेष्टैकषडब्धयः। शनौ त्रिपञ्चसप्ताष्टः दिवाष्टांशाः शुभावहाः ।। २१ ।। सर्वकार्ये बुधैर्ग्राह्यं सदा चान्द्रमसं बलम्। यस्माच्छतगुणं तेन विना ⁴⁶कार्यं न सिध्यति ।। २२ ।। ⁴⁷दशैकादशषट् त्र्येकसप्तमः पक्षयोर्द्वयोः। चन्द्रमाः ⁴⁸शोभनः प्रोक्तः शुक्ले पञ्चनवद्विगः ।। २३ ।। क्षीणः कृष्णदशम्यूर्ध्वं दशाहां चन्द्रमास्तदा। तारया फलदः सोऽपि त्रिपञ्चाद्रिविहीनया ।। २४ ।। हिमांशोर्द्वादशावस्था राशौ राशौ स्वव⁴⁹त्फलाः। प्रवासाद्याक्रमेणैव मेषादिषु यथाक्रमम् ।। २५ ।। प्रवासनाशिनीमृत्युर्जयाहास्यारतिस्तथा। क्रीडिता ⁵⁰निद्रिता भुक्ता ज्वरिता कम्पिता ⁵¹स्थिता ।। २६ ।। ४१. रैवेक - In A ४२. E writes wordings and numerals ४३. मँचमा - In A ४४. वेद ४ ७ ८ रसो-६ ४५. द्वि-२ पञ्च-५ ष्टै-८ क-१ षड्-६ व्ध-४ त्रि-३ पञ्च-५ सप्ता-७ ष्ट-८ ....ष्टांशाः- ८ - note in D, E ४६. कार्ये न सिद्ध्यते - In A ४७. गोचरपरत्वं विषयम्, दश-१० एकादश-११, षट्-६, त्र्ये-३ क-१, षट्-६, त्र्येक-३, १, सप्तमः-७ notes in - DE ४८. शोभनः प्रक्ताः - In A, B, C ४९. फलाम् - In A ५०. निद्रेता - In A ५१. स्विता - In D