भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 48, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 48

12 वास्तुमण्डनम् श्रीवत्सः कलिकर्त्ता च नन्दीशः कालकर्णकः। ५५धर्मदिनं क्षयश्चैव विजयी दिवसाः क्रमात् ॥ ३४ ॥ इति दिनशुद्धिः ॥ गृहारम्भे तिथिर्नन्दा जया पूर्णा च शोभना। भौमार्कवर्जिता वारा योगा ५६शोभननामकाः ॥ ३५ ॥ ५७हस्तत्रयोत्तरा पुष्ये धनिष्ठा शतभे मृगे। मैत्रे मूलेऽश्विनी पौष्णे ब्राह्मे प्रारम्भणं श्रिये ॥ ३६ ॥ सूर्यभान्मस्तके त्रीणि चत्वारि चाग्रपादयोः। चत्वारि ५८पश्चात्पादयोः पुच्छे त्रीणि प्रदापयेत् ॥ ३७ ॥ वामे कुक्षौ तु चत्वारि पुनश्चत्वारि दक्षिणे। ५९पृष्ठे च त्रीणि ६०धिष्ण्यानि ६१नासिकायां द्वयं न्यसेत् ॥ ३८ ॥ ६२मस्तके स्वामिनो मृत्यु६३रुद्धसं ६४चाग्रपादयोः। स्थिरं स्यात् पश्चिमे पादे पुच्छे क्लेशनिवेशने ॥ ३९ ॥ कुक्षौ धनक्षयं वामे दक्षिणे तु ६५धनागमम्। पृष्ठे धनागमं ६६विद्यान्नासिकायां पतिक्षयम् ॥ ४० ॥ इति वृषचक्रम् ॥ ५५. धमं धर्मदिनं – In D ५६. शुभनः – In A ५७. हस्ते – In B ५८. पादयोः पश्चात्पुच्छे– In ABCD ५९. प्रष्ठे – In A ६०. धिष्मानि – In A ६१. नाशिकायां – In A ६२. मस्तिके – In A ६३. रुद्धशं – In A रुद्धासं – In D, E ६४. चाधपाद – In A श्वाग्रपाद – In D, E ६५. धनागमः – In B C, D, E ६६. विद्यानाशिकायां – In A विंध्यात्रासिकायां – In D, E