भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 50, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 50

14 वास्तुमण्डनम् मीनवृश्चिकसिंहानां ^६७पत्युः ^६८पूर्वामुखं गृहम्। कन्यामकरकर्काणां गृहं याम्वाननं मतम्॥ ४१॥ तुलामिथुनचापानां ^६९पश्चिमास्यं गृहं भवेत्। कुम्भमेषवृषे शस्यः पुंसः सौम्वाननं शुभम्॥ ४२॥ ^७०श्रावणे धनवृद्धिः स्यात् प्रारम्भे मन्दिरादिषु। शून्यं भाद्रपदे मासे आश्विने कलहः ^७१सदा॥ ४३॥ कार्तिके भृत्यनाशः स्यात् कैश्चिद्धान्यागमः स्मृतः। मार्गशीर्षे धनं पौषे लक्ष्मीश्चौरभयं ^७२क्वचित्॥ ४४॥ माघे वह्निभयं विद्यात् फाल्गुने श्रीगृहे कृते। चैत्रे ^७३शोकागमो भर्तु^७४र्वैशाखे तु धनागमः॥ ४५॥ ज्येष्ठे मृत्युः तथाऽऽषाढे पशुनाशः प्रजायते। सारसागरः॥ तृ