वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 52, कुल 296 में से
संदर्भ में पढ़ें16 वास्तुमण्डनम् पूर्वापरमुखं सूर्ये कर्कसिंहमृगे घटे। ७७तुलालिवृषमेषस्थे कुर्याद्याम्योत्तरं गृहम् ॥ ४८ ॥ ७८मतिभ्रंशेन यः कुर्यादन्यथा भवनादिकम्। व्याधिशोकमवाप्नोति धननाशं ७९मृतिं पुनः ॥ ४९ ॥ वत्सः पूर्वा८०दिगः सृष्ट्या कन्यादित्रित्रिगे रवौ। द्वारार्धं तन्मुखे मृत्युकरं ८१पार्श्वद्वये शुभम् ॥ ५० ॥ ॥ इति ८२माससंक्रान्तिफलम् ॥ ८३द्विस्वभावे स्थिरे लग्ने ८४शुभैर्युतिविलोकिते। निर्माणं भवनस्याहुः शस्तं कर्म स्थितैः शुभैः ॥ ५१ ॥ त्रिषडायगतैः क्रूरैः शुभैः ८५केन्द्रत्रिकोणगैः। शुभं गृहस्य निर्माणं क्रूरो मृत्युप्रदोऽष्टमः ॥ ५२ ॥ पञ्च८६ग्रहबले लग्ने प्रासादोद्वाहमन्दिरम्। कुर्याच्छाकुनवीर्येण नान्यज्जालं विचिन्तयेत् ॥ ५३ ॥ ७७. वास्तु तूपी वृषभः सर्पो वा २ marginal notes in E ७८. ६।७।८ - पू. ९।१०।११ - द १२।१।२ - प ३।४।५ - उ these are marginal notes in E ७९. मृतं - in A ८०. दिन - in C ८१. याश्वद्वयै - in A ८२. माशक्रांतिवत्सफलम् - A ८३. द्विस्थवै २।३।५।६।८।९।११।१२ - - in A ८४. शुभेयुक्ते - in A ८५. १।४।७।१० ८६. गृहै - in A