वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 66, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 66
30 वास्तुमण्डनम् १६२मत्स्यपुराणे ॥ सूत्रारम्भे १६३शिलान्यासे द्वारवंशोच्छ्रयेऽपि च। प्रवेशे शान्तिकार्ये च वास्तु१६४यज्ञस्तु पञ्चधा ॥ ९७ ॥ एकपादोदितो वास्तुर्यावत्पदसहस्रकम्। द्वात्रिंशन्मण्डलानि१६५ स्युः क्षेत्रतुल्याकृतीनि च ॥ ९८ ॥ एकाशीतिपदो वास्तुश्चतुःषष्टिपदोऽथवा। सर्ववास्तुविभागेषु पूजये१६६न्मण्डलद्वयम् ॥ ९९ ॥ यद्वा ॥ चतुःषष्ट्या १६७पुरग्रामे मर्मराजगृहेषु १६८च। एकाशीत्या पदैर्गेहे शतेनार्चे सुरालये ॥ १०० ॥ सर्ववास्तु१६९विभागेषु १७०विज्ञेया नवका१७१ नव। १७२प्रासादेष्वेवमेवस्याद्वापीकूपेषु चैव हि ॥ १०१ ॥ ईशो मूर्धनि १७२पर्जन्यो दक्षिणं कर्णमाश्रितः। जयस्कन्धे१७३महेन्द्राद्याः पञ्च दक्षिणबाहुगाः ॥ १०२ ॥
१६२. मात्स्ये in B, D, E १६३. शिल्पा in A १६४. यजत्स्तुं in A १६५. द्वाविंश- in A १६६. न्मण्डले in DE १६७. पुरे in E १६८. तं in A १६९. विभावेषु in A १७०. विज्ञेयाकानवा in B १७१. E gives marginal note देवगृहादि १७२. जर्जन्यो in A १७३. मेहेन्द्राद्या in A