भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 68, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 68

32 वास्तुमण्डनम् महेन्द्रादित्यसत्याश्च वृष आकाशमेव ते। वह्निर्जानुनि पूषाद्याः ससपादतलोस्थिताः ॥ १०३ ॥ पूषाऽथ वितथश्चैव १७४गृहक्षतो यमस्तथा। गन्धर्वो भृङ्गराजश्च मृगसतसुरा इति ॥ १०४ ॥ पादयोः पितरस्तस्मात्सत्१७५पादतलास्थिताः । दौवारिकोऽथसुग्रीवपुष्पदन्तो १७६जलाधिपः ॥ १०५ ॥ असुरः शोषयक्ष्माणौ रोगो जानुनि संस्थितः । १७७नागो मुख्यश्च भल्लाट सोमः शैलश्च बाहुगाः ॥ १०६ ॥ अदितिः स्कन्धदेशेऽस्य वामकर्णे दितिः स्थिताः । द्वात्रिंशद्वाह्यगादेवा नाभिपुष्ठे स्थितो विधिः ॥ १०७ ॥ अर्यमा दक्षिणे वामे स्तने तु १७८पृथिवीधरः । विवस्वानथ १७९मित्रश्च दक्षवामोरुगावुभौ ॥ १०८ ॥ आपःकण्ठे स्थितो १८०वास्तोरपवत्सो हृदि स्थितः । सावित्रः सविता तद्वत् करं दक्षिणमाश्रितौ ॥ १०९ ॥ इन्द्र इन्द्र१८१जयो १८२मेण्ढ्रे १८३रुद्रो वामेकरेऽस्य च । रुद्र१८४दासोऽपि तत्रैव इति देवमयं वपुः ॥ ११० ॥ १७४. गृहक्षा यमः in B १७५. पादलता in A १७६. जनाधिपत् in A १७७. नागा in A १७८. पृथवी in A १७९. मित्रस्य in A १८०. वास्तोपेरोवत्स्र्थ्यैहर्यदिगं in C १८१. जयो in A १८२. मेद्रे in BCDE १८३. रुड्ये in A १८४. दाजो in C