वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 70, कुल 296 में से
संदर्भ में पढ़ें34 वास्तुमण्डनम् भूमीं १८५परीक्ष्य तां पञ्चगव्यैरा१८६सेचयेत्सुधीः । पश्चाद्वास्तुं लिखेद्दन्तहेमरौप्यफलादिभिः ॥ १११ ॥ काष्ठांगारनखैः शस्त्रैर्लिखितो भयकारकः ॥ ११२ ॥ तथा चापराजिते ॥ ततो १८७वास्तुः सुसंपूज्य१८८स्तत्र १८९क्षेत्रे सुकल्पिते । पुष्पाक्षतैः समालिख्य निलयादिप्रमाणतः ॥ ११३ ॥ चतुःषष्टि पदे वास्तौ मध्ये ब्रह्मा युगांशकः । अर्यमाद्याश्चतुर्भागा मध्यकोणे द्विभागिकाः ॥ ११४ ॥ बाह्यकोणेषु१९० सार्द्धांशा शेषाः एकपदा सुराः । एकाशीतिपदे वास्तौ ब्रह्मा मध्ये नवांशकैः ॥ ११५ ॥ षट्पदा अर्यमाद्याः स्युद्वर्चंशः कोणेषु मध्यगाः । सर्वेऽपि भागिका बाह्ये १९१देवा अथ शतांशके ॥ ११६ ॥ ब्रह्मा तु षोडशपदो वशंशा अर्यमादयः । १९२बाह्यकोणेषु सार्धांशा शेषाः स्युः पूर्ववास्तुवत् ॥ ११७ ॥ १९३इशश्चैव तु पर्जन्यो जयन्तः शक्रभास्करौ । सत्यो भृशोऽम्बरं चेति देवान्पूर्वे प्रपूजयेत् ॥ ११८ ॥ १८५. परीक्ष्यती in A १८६. सौच्य बुद्धिमान् in B सोच्य बुद्धिमान् in CDE १८७. वास्तुस्तु संपूज्य in A १८८. त्रेत्रे in A १८९. Ms E given note गृहादि १९०. वार्द्धांशाः in e, चार्द्धांयाः in BDE १९१. दैवा in B.C. दैव in DE १९२. वारुणी in A १९३. A writes इशान and omits तु