भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 72, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 72

36 वास्तुमण्डनम् १९४अग्निः पूषाऽथ वितथो १९५गृहक्षतयमौ तथा । गन्धर्वो भृङ्गराजश्च मृग१९६इत्यष्ट दक्षिणे ॥ ११९ ॥ पितरोद्वास्थ सुग्रीवपुष्पदन्तजलाधिपाः । असुरः शोषयक्ष्माणौ इत्यष्टौ पश्चिमे यजेत् ॥ १२० ॥ १९७रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च । शैलोऽदिति१९८र्दितिश्चेति देवानुत्तरतोऽर्चयेत् ॥ १२१ ॥ आपापवत्सावीशाने मध्यकोणे १९९प्रपूजयेत् । सावित्रः सविताग्नेये इन्द्र२००श्चेन्द्रजयोऽन्यतः ॥ १२२ ॥ २०१रुद्रं च रुद्रराजं च२०२ वायव्ये द्वौ समर्चयेन् । अर्यमा पूर्वदिग्भागे २०३विवस्वान् इह दक्षिणे ॥ १२३ ॥ मित्रस्तु पश्चिमे तद्वदुत्तरे २०४पृथिवीधरः । ब्रह्मागर्भे सुरा एवं संपूज्या सर्ववास्तुषु ॥ १२४ ॥ ईशाने चरकीं बाह्ये पिलिपिच्छां तु पूर्वतः । विदारीमग्निकोणे च२०५ जम्भां याम्यदिगाश्रितान् ॥ १२५ ॥ १९४. अग्र in A १९५. ग्रह in BCD १९६. इष्टत्ये in C १९७. A omits V 121 १९८. दिश्चोति in B दिश्चेति in C १९९. प्रभुजयेत् in A २००. श्चेन्द्रयोजन्तः in A २०१. रुद्रांश्च in DE २०२. वायव्यो in A, वायवे in e २०३. विविस्वान् in B २०४. पृथ्वीधरः in A २०५. जृभं in C, जृभां in E