वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 74, कुल 296 में से
संदर्भ में पढ़ें38 वास्तुमण्डनम् २०६नैऋत्ये पूतनां स्कन्दां पश्चिमेऽथ मरुद्दिशि। तां पापराक्षसीं वास्तोः सौम्ये २०७यमदिशान् यजेत्॥ १२६॥ हेतुकादींश्च २०८तद्वाह्ये क्षेत्रेशानष्ट पूजयेत्। हेतुकस्त्रिपुरघ्नश्च वेताल२०९श्वाग्निजिह्वकः॥ १२७॥ कालः कराल २१०एकांघ्रिर्भीमश्चेत्यष्ट भैरवाः। देवीः क्रूरां यमादींश्च माषान्नैः सुरयामिषैः॥ १२८॥ अपरान् घृतपक्वान्नैः सर्वान् गन्धादिहेमभिः॥ १२९॥ तथा च। कुण्डे त्रिमेखले हस्तमिते होमं समाचरेत्। क्षीरवृक्षसमिद्भिर्वा पालाशीभिः कुशैरपि॥ १३०॥ होमधान्यैर्नवैः शुद्धैर्मधुसर्पिसमन्वितैः। यव२११प्रियङ्गुगोधूमैस्तिलैर्व्रीहिभिरेव वा॥ १३१॥ बिल्वैर्वापि पृथक्कुर्याद्धोममष्टोत्तरं शतम्। अष्टाधिकां विंशतिं वा २१२प्रतिदैवतमाचरेत्॥ १३२॥ ततो मण्डलं २१३संस्थाप्य देवताभ्यो बलिं हरेत्। एवं संपूजिता देवाः शान्तिं कुर्वन्ति ते सदा॥ १३३॥ राक्षसानां बलिर्देयो २१४मांसौदनमयस्तथा। ततः सर्वौषधिसस्नानं यजमानस्य कारयेत्॥ १३४॥ २०६. नैऋत्यः in A २०७. चार्यमाणं in C २०८. तद्वाह्येपि in A २०९. स्थाग्रिजिक्ककः in A २१०. एकोहि- in BD २११. प्रयंग in A २१२. प्रतिदैवमता in A २१३. संस्थाभ्यो २१४. मासोदनयस्था in B