वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 76, कुल 296 में से
संदर्भ में पढ़ें40 वास्तुमण्डनम् द्विजांस्तु पूजयेद्भक्त्या ये चान्ये गृहमागताः । एतद्वास्तूपशमनं कृत्वा कर्म समाचरेत् ॥ १३५ ॥ प्रासादभवनोद्यानप्रारम्भपरिवर्त्तने । २१५पुरवेश्मप्रवेशे च सर्वदोषोपशान्तये ॥ १३६ ॥ अनेन विधिना यस्तु प्रतिसंवत्सरं बुधः । गृहे वायतने २१६कुर्यान्न स दुःखमवा२१६प्नुयात् ॥ १३७ ॥ न च व्याधिभयं तस्य न च वन्धुधनक्षयः । जीवेद्वर्षशतं स्वर्गे कल्पमेकं च तिष्ठति ॥ १३८ ॥ इति वास्तूत्पत्तिविन्यासपूजनविधिः ॥ अथ मर्मवास्तुः- युगास्रे वा(ऽ)यते क्षेत्रे चतुःषष्टिविभाजिते । मध्ये रेखा स्मृता२१७स्तिस्रो वंशापूर्वापरायताः ॥ १३९ ॥ याम्योत्तरायतास्तिस्र उपवंशाः २१८प्रभिन्नगाः । कर्णात्कर्णगतं सूत्रं शिरासंज्ञमिह न्यसेत् ॥ १४० ॥ तत्पार्श्वयोस्तथा २१९रेखा भागभागान्तरे इह । तत्राष्टसूत्रैः पद्मानि षड्भिर्वज्राणि द्वादश ॥ १४१ ॥ चतुष्कोणेषु शूलानि विकर्णोर्ध्वे तु लाङ्गलम् । मर्माणि वंशसंपाता महामर्माम्बुजादिकम् ॥ १४२ ॥ २१५. Ms A omits VI36cd and V137ab २१६. कुर्यान् रदुरकमवा- in A २१७. स्तिस्तो in A २१८. प्रतिन्नगाः in A २१९. रेखो in AD देखे in CE