वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 80, कुल 296 में से
संदर्भ में पढ़ें44 वास्तुमण्डनम् सूत्र२२७च्छेदेन २२८सिद्धै स्यादृष्टीले विच्युते भयम् । कीलकेऽवाङ्मुखे रोगस्ततो यत्नं समाचरेत् ॥ १५१ ॥ समारभेत कर्माणि २२९अष्टसूत्रविधिक्रमात् । विद्यादृष्टिकरं मौजं कार्पासमवलम्बकम् ॥ १५२ ॥ काष्ठं च साधकं लेख्यमष्टसूत्राण्यनुक्रमात् ॥ १५३ ॥ इति कीलकारोपणम् ॥ नागस्य प्रथमे घाते पुच्छे २३०पृष्ठे मुखे भयम् । वामकुक्षौ भवेत्सौख्यं तस्मात्कुक्षिरिहोच्यते ॥ १५४ ॥ सिंहादि त्रित्रिगे भानौ सृष्ट्या नागमुखं दिशि । खातं वायौ महेशेऽग्नौ नैर्ऋत्ये शोभनं क्रमात् ॥ १५५ ॥ इति नागवास्तुविधिः । शल्यज्ञाने फणेचक्रमष्टाविंशतिकोष्ठकम् । तिर्यक् २३१पञ्चोर्ध्वगारेखाः कर्तव्या २३२अष्टसन्मिताः ॥ १५६ ॥ द्वारशाखामघायाम्यं द्वारमध्ये च कृत्तिका । पृष्ठपंक्तौ लिखे२३३त्स्वातेः सप्तधिष्ण्यान्यनुक्रमात् ॥ १५७ ॥ चित्रापुनर्वसू रौद्रं मृगशीर्षं धनिष्ठिका । २३४श्रवणं चाभिजित् पंक्तौ द्वितीयायामतो लिखेत् ॥ १५८ ॥ २२७. च्छेदोन in A २२८. सिद्धयै in A, सिध्य in D, सिद्धिं in E २२९. This अष्टसूत्रविधिः is mentioned in AP ch 55 V15-17 २३०. पृष्ठमुखे in B २३१ यंत्रोर्द्धग in A पंचोर्द्धणा in B २३२. चाष्ट- in E २३३. त्वातः in E २३४. ष्ट्रवनं in A