भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 84, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 84

48 वास्तुमण्डनम् ग्रन्थान्तरे- अधः पुरुष²⁴⁴मात्रात्तु न शल्यं दोषदं गृहे। जलान्तकं स्थितं शल्यं प्रासादे दोषदं नृणाम्॥ १६८॥ शल्ये नृपभयं गव्ये हयजे रोगसम्भवः। मार्जारशल्ये नाशश्च शुनोऽस्थिनि²⁴⁵कलिर्भवेत्॥ १६९॥ हानिः खरोष्ट्रयोः शल्ये नराङ्गे बालकक्षयः। छागे वह्निभयं चान्यत्सर्वं शल्यं भयावहम्॥ १७०॥ अङ्गारेषु तथोन्मादं कपालेषु स सम्भ्रमः। काष्ठशल्ये तु जानीयात् ²⁴⁶पौँश्चल्यं स्त्रीषु वास्तुवित्॥ १७१॥ इति शल्योद्धारविधिः॥ कम्बिकालक्षणं ज्ञेयं मानार्थं सर्वकर्मणाम्। विश्वेशोऽपि जगत्स्रष्टुं यां दधार करे पुरा॥ १७२॥ परमाणुभिरष्टाभिस्त्रसरेणुरुदाहृतः। रेण्वष्टकेन बालाग्रं लिक्षा तैरष्टभिर्मताः॥ १७३॥ लिक्षाभिरष्टभिर्युका ता अष्ट स्याद्यवोदरम्। अष्टभिः सप्तभिः षड्भिस्तैर्मात्राङ्गुलमंशकः॥ १७४॥ त्रिविधैरङ्गुलैर्हस्तो ज्येष्ठो मध्यश्च कन्यसः। जिनैकार्द्धाङ्गुलो दैर्घ्ये ब्यासे पिण्डे क्रमा²⁴⁷न्मतः॥ १७५॥ धातुवंशमधूकोत्थः खदिराञ्जनचन्दनैः। तत्र पर्वाष्टकं पुष्पं त्र्यङ्गुले त्र्यङ्गुले भवेत्॥ १७६॥ २४४. मात्रां in A २४५. E gives Footnote २४ अंगु २४६. पौश्चल्यं in CDE २४७. -त्ततः in DE