वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 88, कुल 296 में से
संदर्भ में पढ़ें52 वास्तुमण्डनम् प्रासादप्रतिमालिङ्गं गृहं राजगृहं२५४ तथा२५५। वापीकूपादिभूखातं मिनुयान्मध्यमेन तु ॥ १८६ ॥ यन्त्रशस्त्रासनं वाद्यं वापी२५५कूपेन भाजनम् । छत्रं शय्यारथादीनि कन्यसेन करेण हि ॥ १८७ ॥ एकविंशाङ्गुलोऽरत्निरनिर्हस्त एव च। चतुर्हस्तो धनुर्दण्डो वंशः पञ्चकरः स्मृतः ॥ १८८ ॥ २५६गृहादिकर्म२५७प्रारम्भे हस्तस्य सुधृतस्य तु। पतनं न शुभं तस्मा२५८त्प्रयतेतास्य धारणे ॥ १८९ ॥ इति कम्बिकालक्षणम्। करे करगुणे हस्ता अङ्गलघ्ने करेऽङ्गुलाः। अङ्गुलेष्वङ्गलघ्नेषु फलं लब्धं २५९जिनैर्हृते ॥ १९० ॥ व्यासात्रिगुणितो२६० वृत्तः परिधिः षष्ठभागयुक्। व्यासपादे परिधिना गुणिते वृत्तजं फलम् ॥ १९१ ॥ २५४. गृहवथा in A २५५. कूपेभ in BCDE २५६. ग्रहादि in A २५७. -मारम्भे in A २५८. प्रयतेत्तस्य in DE २५९. जनैहृते in A २६०. E writes marginal note व्यासस्य षड्भागः ब्यासैः । in A