वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 94, कुल 296 में से
संदर्भ में पढ़ें58 वास्तुमण्डनम् पूर्वाग्न्योरन्तरे पूजां कृत्वा पूर्वं न्यसेच्छिलाम्। शेषाः प्रदक्षिणाः स्थाप्याः शिलाधो रत्नपञ्चकम् ॥ २०० ॥ गर्गः ॥ ततः पुण्याहघोषेण शिलान्यासं प्रकारयेत्। ऐशानी२६४मादितः कृत्वा प्रादक्षिण्यक्रमेण २६५च ॥ २०१ ॥ अनेनैव विधानेन स्तम्भद्वाराधिरोहणम्। शिलान्यासस्तु रोहिण्यां श्रवणे हस्तपुष्ययोः ॥ २०२ ॥ मृगशीर्षं च रेवत्यामुत्तरात्रितये शुभः। गृहीतवास्तुमध्ये तु समं कृत्वा भुवःस्थलम् ॥ २०३ ॥ जलेन २६६दण्डमात्रेण साध्यं तच्चतुरस्रकम्। भित्तेर्मूले न्यसेद्द्रव्यं रत्न-रौप्य-सुवर्णकम् ॥ २०४ ॥ गृहे तत्र भवेल्लक्ष्मीर्द्रव्य२६७हीने दरिद्रता। लेपहीनाऽधिका भित्तिरशास्त्रा २६८पादवर्जिता ॥ २०५ ॥ समसन्धिः शिरोगुर्वी षड्दोषैर्धननाशनम्। भूमेर्धनाख्यसम्पत्तिं काष्ठादिद्रव्यनिश्चयम् ॥ २०६ ॥ सम्यग्विचिन्त्य हृदये प्रारभेत गृहादिकम् ॥ २०७ ॥ इति श्री सूत्रधारमण्डनविरचिते वास्तुशास्त्रे वास्तुमण्डने मिश्रकाध्यायः प्रथमः। श्लोकाः २०७॥ २६४. मादेतः in A २६५. तु in BCDE २६६. नंड in B, मंडमांड C.D,E writes note वंसल, वंशला, २६७. मूले in BCDE २६८. वादविवर्जिता in. A