वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 96, कुल 296 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः [ आयाधिकारः ] आयधिष्ण्यव्ययांशानां चन्द्रतारादिजं बलम् । ज्ञात्वा गृही गृहं कुर्यात्स्त्रीपुत्रादिधनाप्तये ॥ १ ॥ १भित्तिमध्ये गृहेष्वायः प्रासादे भित्तिबाह्यतः । सभासु मध्ये बाह्ये वा स्यान्मध्ये शयनासने ॥ २ ॥ नगरेऽथ पुरे ग्रामे दण्डै२र्मानं विधीयते । ३वास्तुदण्डमितं क्षेत्रं तत्रायो ४हस्तसंख्यया ॥ ३ ॥ दैर्घ्येन गुणिते व्यासे ध्वजाद्यायो हृतेऽष्टभिः । शेषो ५वास्तुवसात्सोऽपि ६योज्यो हस्ताङ्गुलैर्यवैः ॥ ४ ॥ ध्वजो धूमोऽथ सिंहश्च श्वानो वृषः खरो गजः । ध्वांक्ष आया अष्ट तेषां ७सृष्टा पूर्वादिषु स्थितिः ॥ ५ ॥ सर्वे नरकराः पक्षिचरणाः सिंहकन्धराः । स्वनामवदनाः ८धूमो मार्जारः ९पुरुष ध्वजः ॥ ६ ॥ १. E gives marginal note भीत्यन्तर्गृहे, २. माने - in D, E ३. वसु - in A ४. E gives marginal note - समक्षेत्रभूमिषु ५. वस्तु - in ABC ६. योगां in A याज्यो in BC ७. वै सृष्टा in A ८. धूम्रो - in D ९. पुरुषो धूनः in A