वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 98, कुल 296 में से
संदर्भ में पढ़ें62 वास्तुमण्डनम् महोत्कटा दिशां नाथाः वसन्त्यन्योन्यसंमुखाः । पूजिताः पूजयन्त्येते घातयन्त्यपदस्थिताः ॥ ७ ॥ ध्वजः सिंहो १०वृषो हस्ती स्वपदे वामदक्षिणे । कर्णगाः स्वपदे देया आयद्वारे ११विदिग्गते ॥ ८ ॥ ध्वजसिंहवृषे वास्तु देवतायतने हिताः । विप्रादिनां क्रमाद्गेहे सर्ववर्णे गजो हितः ॥ ९ ॥ १२अधमानां गृहे धूमो श्वान रासभवायसः । वृषस्थाने गजं दद्यात् सिंहवृषभहस्तिनोः ॥ १० ॥ ध्वजः सर्वेषु दातव्यो नान्यत्र स्वपदादृषः । नवकोष्टीकृते भूमिमध्येऽस्याः कुलदेवता ॥ ११ ॥ स्थापयेच्छकुनार्थेषु ध्वजाद्येषु फलं क्रमात् । अर्थलाभश्च सन्तापो भोगः कलह एव च ॥ १२ ॥ धान्यं स्त्रीदूषणं सौख्यं मरणं च विनिर्दिशेत् । ध्वजः सर्वमुखः प्रत्यङ्मुखः पूर्वाननो वृषः ॥ १३ ॥ सिंह सौम्यमुखो हस्ती दक्षिणाभिमुखः शुभः । खण्डितं स्फुटितं दग्धं भिन्नं निपतितं तथा ॥ १४ ॥ तेषां न मन्त्रसंस्कारो गतास्ता आयदेवताः ॥ १५ ॥ देवयज्ञगृहच्छत्रध्वजवेदीषु तोरणे । वस्त्रालङ्कारदैवेषु दद्यात्तोयाशये ध्वजम् ॥ १६ ॥ होमकुण्डेऽग्निसंस्थाने होमशाला महानसे । धूमं युज्याद्विशेषेण वह्निकर्मोपजीविनाम् ॥ १७ ॥ १० पृष्टो in A ११. विदिग्जजे in A १२. अधूमानां in B